पुरुष सूक्तं
❀ पुरुष सूक्तं ❀
ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्।
स भूमिᳬं सर्वत स्पृत्वाऽत्यतिष्ठद्दशाङ्गुलम्।।१।। ( बायाँ हाथ )
पुरुषएवेदᳬंसर्वं यद्भूतं यच्च भाव्यम्।
उतामृतत्वस्येशानो यदन्नेनातिरोहति।।२।। ( दाहिना हाथ )
एतावानस्य महिमातो ज्यायाँश्च पूरुषः।
पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि।।३।। ( बायाँ पैर )
त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत् पुनः।
ततो विष्वङ् व्यक्रामत्साशनानशने अभि।।४।। ( दाहिना पैर )
ततो विराडजायत विराजोऽअधि पूरुषः।
सजातोऽ अत्यरिच्यत पश्चाद्भूमिमथो पुरः।।५।। (वाम जानु)
तस्माद्यज्ञात्सर्वहुतः सम्भृतं पृषदाज्यम्।
पशूँस्ताँश्चक्रे वायव्यानारण्या ग्राम्याश्च ये।।६।। ( दक्षिण जानु )
तस्माद्यज्ञात्सर्वहुतऽऋचः सामानि जज्ञिरे।
छन्दाᳬंसि जज्ञिरे तस्माद्यजुस्त स्मादजायत।।७।। ( वाम कटिभाग )
तस्मादश्वा अजायन्त ये के चोभयादतः।
गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः।।८।। ( दक्षिण कटिभाग )
तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः।
तेन देवा अयजन्त साध्या ऋषयश्च ये।।९।। ( नाभि )
यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन्।
मुखं किमस्यासीत् किं बाहू किमूरू पादा उच्येते।।१०।। ( हृदय )
ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्यः कृतः।
ऊरू तदस्य यद्वैश्य पद्भ्याᳬं शूद्रो अजायत।।११।। ( वाम बाहु )
चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत।
श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत।।१२।। ( दक्षिण बाहु )
नाभ्या आसीदन्तरिक्षᳬं शीर्ष्णो द्यौः समवर्तत।
पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ २ अकल्पयन्।।१३।। ( कण्ठ )
यत्पुरुषेण हविषा देवा यज्ञमतन्वत।
वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः।।१४।। ( मुख )
सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः।
देवा यद्यज्ञं तन्वाना अबध्नन् पुरुषं पशुम्।।१५।। ( आँख )
यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्।
ते ह नाकं महिमानः सचन्तयत्र पूर्वे साध्याः सन्ति देवाः।।१६।। ( मूर्धा )
Comments
Post a Comment