ᳪ ंहवामहे
Posts
Showing posts from 2020
श्री हनुमत् स्तवन
- Get link
- X
- Other Apps
श्री हनुमत् स्तवन प्रनवउँ पवनकुमार खल बन पावक ज्ञानघन जासु हृदय आगार बसहिं राम सरचाप धर अतुलितबलधामं हेमशैलाभदेहम् दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् सकलगुणनिधानं वानराणामधीशम् रघुपतिप्रियभक्तं वातजातं नमामि ||१ || गोष्पदीकृतवारीशं मशकीकृतराक्षसम् रामायणमहामालारत्नं वन्देऽनिलात्मजम् अञ्जनानन्दनं वीरं जानकीशोकनाशनम् कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम् ||२ || उल्लङ्घ्य सिन्धो: सलिलं सलीलं य: शोकवह्निं जनकात्मजाया: आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् ||३ || मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ||४ || आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनीयविग्रहम् पारिजाततरु...